________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२६४
दण्डविवेकः।
त्वम् । अतस्तचैव दण्डाधिक्यं न तु रहसि क्रियमाणानामिति। तत्र प्रतिपादोक्त एव दण्ड इति मिताक्षराकारः। एतदेवाभिसन्धाय याज्ञवल्क्येन। सर्वः साक्षी संग्रहणे चौर्य-पारुष्य-साहसे।
इति पृथगुपादानं कृतम् । एवञ्च परिगणितेभ्योऽन्यस्यापि साहसत्वात्तत्र तदत्तो दण्डो घटते। यथा बृहस्पतिः,
होनमध्योत्तमत्वेन विविधन्तत्प्रकीर्तितम् । द्रव्यापेक्षो दमस्तत्र प्रथमो मध्य उत्तमः ॥ उदाहृतमिदं प्रकीर्णापहारप्रकरणे, नारदः,
तस्य दण्डः क्रियापेक्षः प्रथमस्य शतावरः । मध्यमस्य तु शास्त्रज्ञैदृष्टः पञ्चशतावरः॥ उत्तमे साहसे दण्डः सहस्रावर इष्यते । वधः सवस्वहरणं पुरान्निर्वासनाङ्कने ॥
तदङ्गछेद इत्युक्तो दण्ड उत्तमसाहसे । तदङ्गं साहसकरणभूतम् । उत्तमसाहसे वधादयोऽपराधतारतम्यात्समस्ता व्यस्ता वा योज्या इति मिताक्षरा। परद्रव्यस्य हिंसापहारादौ मूल्यसमं दममभिधायबृहस्पतिः,
द्विगुणः कल्पनीयः स्यात् पुरुषापेक्षया नृपैः । याज्ञवल्क्यः,
तन्मल्याद्दिगुणो दण्डो निहवे तु चतुर्गणः ।
For Private And Personal Use Only