________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३०४
दण्डविवेकः ।
अयं शतदण्डो विदषोरन्योन्यत्यागे।
न माता न पिता न स्त्री न पुत्रस्त्यागमर्हति । त्यजन्नपतितानेतान् राज्ञा दण्ड्यः शतानि षट् ॥ इति मनूक्तः शतदण्डो विदुषा कामादेकतरत्यागे द्रष्टव्यः।
अत्याज्या माता तथा पिता सपिण्डा गणवन्तः सर्व एवात्याज्याः। यत्यजेत् कामादपतितान् स दण्डं प्राप्नुयाद्दिशतम् ।
इति शङ्खलिखितोक्तो दिशतदण्डः कामादविदपैकतरत्यागे द्रष्टव्यः।
अथ मार्गादानादौ विष्णः,
येषां देयः पन्थास्तेषामपथदायौ कार्षापणपञ्चविंशतिपणान् दण्ड्यः। आसनार्हस्य आसनमददत्, पूजार्हमपूजयंश्च, प्रातिवेश्यब्राह्मणे निमन्त्रणातिक्रमे च निमन्त्रयित्वा भोजनादायौ च निमन्त्रितस्तथेत्युक्त्वा चाभुञ्जानः सुवर्णमाषकं निकेतयितुश्च द्विगुणमन्नम् । अत्र मनुः,
चक्रिणो दशमौस्थस्य रोगिणो भारिणः स्त्रियाः। स्नातकस्य च राज्ञश्च पन्था देयो वरस्य च ॥ चक्री चक्रयुक्तरथादियानवान् । दशमौं गतो नवतिवर्षोपरिवयाः। वरो विवाहाय प्रस्थितः। एतदाचार्योपाध्यायगुर्बादौनां विद्यारद्धादीनाञ्चोपलक्षकम् । अपथदायौ उक्तानां पन्थानमददानः। आसनास्य
१ मूले निमन्त्रयितुश्च ।
For Private And Personal Use Only