________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२८८
दण्डविवेकः।
इति गौतमवचने अब्राह्मणेति नत्रो निन्दार्थत्वात्। पर्यदासपरत्वेऽप्यभिरूपब्राह्मणान्यत्वेनाविद्राह्मणस्यैव तत् ।
न च विष्णुवाक्ये षष्ठांशस्य राज्ञा दानं याज्ञवल्क्यवाक्ये तस्य ग्रहणमिति विरोध इति चेन्न अभियुक्तव्याख्यानेन तन्निरासात् ।
तथाहि मिताक्षराकारः,इतरेण राजविद्राह्मणव्यतिरिक्तेन अविद्राह्मणक्षत्रियादिना निधौ लब्धे राजा षष्ठांशमधिगन्त्रे दत्वा शेषं निधिं स्वयमाहरेदित्याह। गोतमसंवादोऽप्यत्र द्रष्टव्यः।
अथ मिताक्षराकारः,हरेदिति प्रनष्टाधिगतवद्ययीकरणाभ्यनुज्ञानपरम् । यदि तु स्वामौ आगत्य स्वरूपसंख्यादिभिर्निधिं सम्भावयति तदा राजा तस्मै निधिं दत्वा षष्ठं द्वादशं वा अंशं स्वयमादद्यादित्याह।
राज्ञा स्वयं निध्यधिगमे त्वाह राजधर्मे विष्ण:निधिं लञ्चा ब्राह्मणेभ्यस्तदई दत्वा द्वितीयमई कोषे प्रवेशयेत् ।
परेण निधिलाभे स एवाह,निधिं लञ्चा ब्राह्मणः स्वयमेवादद्यात्। क्षत्रियश्चतुर्थमंशं राज्ञे दद्यात् चतुर्थमंशं ब्राह्मणेभ्यः, अर्द्ध स्वयमेवादद्यात् वैश्यश्चतुर्थांशं राज्ञे दद्यात् ब्राह्मणेभ्योऽई स्वयमंशद्वयमादद्यात्। शूद्रश्चावाप्तं हादशधा विभज्य पञ्चांशं राज्ञे पञ्चांशं ब्राह्मणेभ्योऽशवयं स्वयमादद्यात् ।
For Private And Personal Use Only