________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रनाधिगताधिकारः।
२९
ब्राह्मणोऽत्र षट्कर्मनिरतः। ब्राह्मणश्चेदधिगच्छेत् षट्कर्मसु वर्त्तमानो न राजा हरेत् ।
__इति वशिष्ठवचनात्। एवञ्च,विद्वांस्तु ब्राह्मणो दृष्ट्वा पूर्वोपनिहितं निधिम् ।
अशेषतोऽप्याददौत सर्वस्याधिपतिहि सः ॥ इति मनुवचने विद्वत्त्वमपि षट्कर्मनिरतब्राह्मणपरमेव । विदष एव षट्कर्मकरणस्यौत्सर्गिकत्वेन तचैव तत्पदप्रयोगात् द्वयोरेकमूलकत्वकल्यने लाघवात्।।
अस्तु वा वाक्ययोरेकवाक्यतया षट्कर्माभिरतविदब्राह्मणपरत्वं एवमप्येकमूलकत्वोपपत्तेः । अतएव विद्वानशेषमादद्यादिति याज्ञवल्क्यवाक्ये विद्वान् श्रुताध्ययनसम्पन्नः सदाचारः सर्वमेव गृह्णीयादिति मिताक्षरायां व्याख्यातम् ।
इदन्तु याज्ञवल्क्यवाक्यं ममायमिति यो ब्रूयादित्याधुक्त-राजदेयांशनिरासार्थं पिचादिनिहितविषयमिति मेधातिथि-गोविन्दराजौ। कुल्लूकभट्टस्तु,परेण निहितं लञ्चा राजन्युपहरेन्निधिम् ।
राजगामौ निधिः सर्वः सर्वेषां ब्राह्मणाहते ॥ इति नारदवचनात्,
राजा लञ्चा निधिं दद्याहिजेभ्योऽई दिजः पुनः । विद्वानशेषमादद्यात् स सर्वस्य प्रभुर्यतः ॥ इति याज्ञवल्क्यवचनाच्च परनिहितविषयमपौत्याह ।
37
For Private And Personal Use Only