________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२६
दण्ड़विवेकः ।
स च पालाधिष्ठानकाले पालस्य । नो चेत् स्वामिन एव ।
अपालायास्तत्स्वामौ सपालायाः पालः ।
इति विष्णुदर्शनात् ।
इति कृत्यसागर-स्मृतिसारौ ।
क्षेत्रि शस्यदानं नाशानुसारेणैव, पालस्य च ताडनमपराधानुसारेणैव नतु पशुपरिगणनयेति विशेषः । निधिः पूर्व्वनिखातं चिरविनष्टं धनम् ।
स द्विविधो ज्ञायमानस्वामिकोऽज्ञायमानस्वामिकश्च । तयोरन्त्यः परनिधिरित्याख्यायते ।
अथ प्रथमे मनुः,—
ममायमिति यो ब्रूयान्निधिं सत्येन हेतुतः । तस्याददौत षड्भागं राजा द्वादशमेव वा ॥ वर्ण-कालाद्यपेक्षया भागविकल्प इति विज्ञानेश्वरः । बहुगुणवत्त्वागुणवत्त्वापेक्षयेति कुल्लूकभट्टः । एवमेव रत्ना - करः। एतच्च ब्राह्मणादन्यत्र द्रष्टव्यम् ।
यदाह विष्णुः, -
स्वनिहिताद्राज्ञे ब्राह्मणव द्वादशमंशं दद्युः, परनिहितं स्वनिहितमिति वदन्तस्तत्समं दण्डमावहेयुः । परनिहितमिति तन्निहितमेवातन्निहितं वदन्त इत्यर्थः ।
तत्समं निहितसमं सन्निहितत्वात् दादशांशस्यापि अंशि- निरूप्यत्वेन तस्यैव प्रथमं बुद्धिविषयत्वात्' । अन्यथा वदन्तश्चेति ब्रूयात् न तु तत्सममिति ।
१
पुस्तके बुद्धिस्थत्वात् ।
For Private And Personal Use Only