SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रनहाधिगताधिकारः। २८५ प्रत्यक्षचारकाः क्षेत्रिणां समक्षमेव बलेन चारकाः। तथा,__ स्वामी समं दमं दाप्यः पालस्ताडनमर्हति । समं भक्षितशस्यानुरूपं फलं क्षेत्रिणे, दमं दण्डं राजे स्वामिपालसमक्षविषयमेतत् ॥ अथ नारदः,समूलशस्यनाशे तु स्वामी दममवाप्नुयात् । वधेन पालो युज्येत दण्डं स्वामिनि पातयेत् ॥ यस्मिन्नाशे पुनः प्ररोहो न भवति स समूलशस्यनाशः । एतयोर्दोषे नाशानुरूपं फलं क्षेत्रस्वामिने दण्डञ्च राजे गोस्वामी दद्यात्। पालस्य तु अपराधानुरूपं ताडनमित्यर्थः । हलायुधे तु, यस्मिन् क्षेत्रे चारिते कृशवृत्तेाह्मणादेरत्यन्तपीडा भवति, तब गोपो वध्य इति। मुख्यार्थपरतया वधेनेति व्याख्यातम् । अत्र गवादिभक्षितावशिष्टं पलालादि गोस्वामिनैव ग्रहौतव्यम् मध्यस्थकल्पितमूल्यदानेन क्रौतप्रायत्वात् । अत एव नारदः,पलालं गोमिने देयं धान्यं वै कर्षकस्य तु । इति मिताक्षराकारः । सर्वश्चायं दण्डः प्रत्येकमेकैकं पशुं प्रति द्रष्टव्य इति रत्नाकरः। १ क दद्यात् । For Private And Personal Use Only
SR No.020171
Book TitleDandvivek
Original Sutra AuthorN/A
AuthorVardhaman, Kamal Krishna
PublisherOriental Institute
Publication Year1931
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy