________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२०४
दण्डविवेकः ।
अश्वो वणिगाद्यश्वः प्रजापालत्वाभावात्तस्येति कृत्यसारस्मृतिसारौ। अश्व इत्यादौ शस्यनाशं कुर्यादित्यनुषङ्गः । __ अत्र खरोष्ट्रं महिषौसममिति याज्ञवस्त्क्यदर्शनात्तत्र तत्र समभिव्याहाराच्च खरोष्ट्रगईभमहिष्यो महान्तः, गौर्मध्यमा, अजाविके क्षुद्राविति विभागः प्रतीयते । अथ शङ्खलिखितौ।
रात्रौ चरन्ती गौः पञ्चमाषान् विरात्रौन् । नारदः,
सन्नानां द्विगुणो दण्डो वसतान्तु चतुर्गुणः । सन्नानां शस्यभक्षणश्रान्तानाम्, वसतां तचैव चरित्वा नौतरात्रिकाणाम् । याज्ञवल्क्यः, -
वसतां द्विगुणः प्रोक्तः सवत्सानाञ्चतुर्गुणः ।. सवत्सानां वसतामित्यन्वयः । मनुः,पथि क्षेत्र परिहते ग्रामान्तीयेऽथवा पुनः ।
सपालः शतदण्डा) विपालान् वारयेत् पशून्॥ वर्मग्रामयोरपि समीपस्थं परिवृतं यत् क्षेत्र तत्र पालशून्यः पशुः क्षेत्रिणैव वारणीयः। सपालः पशुपालेन, यदि तेनासौ न वार्यते तदाभिसन्धिदोषादस्य पणशतं दण्डः ॥ नारदः,प्रत्यक्षचारकाणान्तु चौरदण्डः स्मृतो बुधैः ।
१ क त्रिरात्रीन् ।
For Private And Personal Use Only