________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रनहाधिगताधिकारः।
२८१
व्याघ्रादिभिहतो वापि व्याधिभिर्वाऽप्यपद्तः ।
न तत्र दोषः पालस्य न च दोषोऽस्ति गोमिनाम् ॥ गोमौ गोस्वामी। द्वितीयमाह स एव,
गौः प्रसूता दशाहन्तु महोक्षा वाजिकुञ्जराः। विनिवार्य्याः प्रयत्नेन स्वामी तेषां न दण्डभाक् ॥ महोक्षा बोजसेक्ता वृषभः। वाजिकुञ्जराः प्रजापालनोपयुक्ताः। अदम्या हस्तिनोऽश्वाश्च प्रजापाला हि ते स्मृताः ।
इत्युशनोदर्शनात् । मनुः,अनिर्दशाहां गां सूतां वृषान् देवपशूस्तथा। सपालान् वा विपालान् वा अदम्यान् मनुरब्रवीत् ॥
देवपशवो देवमुद्दिश्योत्सृष्टाः पशवः, उत्सृष्टहषाणामपि गवां गर्भार्थं गोपैर्धारणात्सपालत्वमिति कुल्लकभट्टः । शङ्खः,
देवपशवम्छागतृषाः शस्यापराधे न दण्डमाप्नुयुः । वृषशब्देन बौजसेककृत्पित्रर्थोत्सृष्टवषयोग्रहणमिति रत्नाकरः। एवञ्च छागोऽपि तादृश एव समभिव्याहारात् । उशनाः,
अदम्याः काणकुण्ठश्च दृषश्च कृतलक्षणः । अदण्ड्यागन्तुका या गौः सूतिका चाभिचारिणौ ॥
१ क सूतौं।
२ अदगड्या निति क्वचित् पाठः ।
For Private And Personal Use Only