SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २२ दण्डविवेकः। कुण्ठः खनः, काणकुण्ठशब्दाभ्यामत्यन्तासमर्थ उच्यत इति रत्नाकरः। वृषश्च कृतलक्षणस्त्रिशूलाद्यङ्कितः । अभिचारिणी अत्यन्तमारणशीला इति हलायुधादयः । अत्यन्तधावनशौलेति मिश्राः। पारिजाते तु अभिसारिणोति पठित्वा अभिसारिणौ दृषस्यन्तौति व्याख्यातम् । आगन्तुका स्वस्थानपरिभ्रष्टा इति रत्नाकरः। अत्र विशेषमाह नारदः,नष्टा या पालदोषेण गौश्च क्षेत्र विनाशयेत्। न तब स्वामिनो दोषः पालस्तद्दण्डमर्हति ॥ आगन्तुका ग्रामान्तरादागतेति ग्रहेश्वरमिश्राः। एवमेव स्मृतिसारकारः। अत्रैव च शब्दस्वरसोऽपरिशौलितपरयूथप्रविष्टायाः स्वयूथोत्सेकभयात् वा दुर्निवारत्वेन दण्डाभावोऽप्यचैव घटते। एवमेव यथभ्रंशे पालदोषस्यावश्यकत्वात्। इति विविक्तो दण्डमाकाशेषः।। अथापवादकाभावाद् यत्र दण्डस्तत्र किं सर्वत्राविशेषेणैव, नेति बमः गुरोः क्षुद्रात् पशो राचावह्नि कामादकामतः । महानल्पः शस्यनाशो दण्डभेदाय भिद्यते ॥ तथा हि हस्यादिनाल्पकालकृतोऽपि शस्योपघातोऽधिको भवति अजादिना बहुकालकृतोऽप्यल्पः । राचावुत्सर्गतो निवारकाभावात् पालस्य स्वामिनो वाऽभौष्टत्वे यावत्सौहित्यमिच्छया पशवश्चरन्ति न तु दिवा तयो १ क क्षेत्रात् । For Private And Personal Use Only
SR No.020171
Book TitleDandvivek
Original Sutra AuthorN/A
AuthorVardhaman, Kamal Krishna
PublisherOriental Institute
Publication Year1931
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy