________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२८०
Acharya Shri Kailassagarsuri Gyanmandir
दण्ड़विवेकः ।
सर्व्वत्र सपाले विपाले च मूल्यमिति दाप्य इति शेषः ।
चकाराद्राजदण्डसमुच्चयः ।
मनुः, -
सपालः शतदण्डार्हो विपालान् वारयेत् पश्नन् । विपालान् पालकशून्यान् ।
कात्यायनः, -
क्षेत्रारामविवीतेषु गृहेषु पशुपातिषु । ग्रहणं तत्प्रविष्टानां ताडनञ्च बृहस्पतिः ॥ पशुपातिषु विकौर्णयवसेषु स्थानेषु, ग्रहणं वन्धनम् । कामधेनौ चकारस्थाने वाकारः पठितः ।
कात्यायनः, -
अधमोत्तममध्यानां पशूनाञ्चैव ताडने ।
स्वामी तु विवदेद यच तच दण्डं प्रकल्पयेत् ॥ इति शस्यघातकदण्डमातृका ।
तदेवं गोप्रचारादेरन्यच पशुभिर्भक्षणेनावमर्द्दनेन वा शस्ये नाशिते पशूनां पशुपालस्य च ताडनम् । पशुस्वामिनः शस्यस्वामिने तत्तन्मूल्ययो रेकतरदानं राजे च दण्डदानमपवादविनयादन्यच स्थितम् ।
तचापवादः क्वचिद्राजदैवदोषात् क्वचित् पशुविशेषादिति द्विविधस्तयोराद्यमाह ।
नारदः, -
राजग्रहगृहीतो वा वज्राशनिहतोऽपि वा । अथ सर्पेण वा दष्टो वृक्षाद्वा पतितो भवेत् I
For Private And Personal Use Only