________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
www.ddysge
प्रनष्टाधिगताधिकारः ।
Acharya Shri Kailassagarsuri Gyanmandir
अत एवाह याज्ञवल्क्यः,
पथि ग्रामविवीतान्ते क्षेत्रे दोषो न विद्यते । अकामतः कामचारे चौरवद् दण्डमर्हति ॥ उशनाः,
गोभिर्विनाशितं धान्यं यो नरः प्रतिलिप्सते' । पितरस्तस्य नाश्नन्ति नानन्ति च दिवौकसः ॥
धान्यमित्युपलक्षणम्। ग्राह्यमप्येतन्नरकहेतुत्वान्न ग्राह्यमित्यर्थः । एतदपि वचनं ग्रामसमौपस्थितानावृतधान्यादिविषयमिति पराशरभाष्यम् ।
उल्लङ्घितशास्त्रं प्रत्याह नारदः, -
गोभिस्तु भक्षितं धान्यं यो नरः प्रतियाचते । सामन्तानुमतं देयं धान्यं यच तु भक्षितम् ॥ शस्यमित्युक्तेर्धान्यमित्ययमस्य प्रत्यनुवादः ।
२७६
तथा, -
गवतं स्वामिना देयं धान्यं वै कर्षकाय च । एवं हि विनयः प्रोक्तो गवा शस्यावमर्द्दने ॥ गवत्तं गवा भक्षितम् । अत्र रत्नाकरादौ गवचमिति पाठो यवस इति तद्याख्यानश्च कामधेन्वादि लिखितपाठादर्शनमूलकत्वादनादेयम् । एवमिति भक्षणवदवमर्द्दनेऽपि तस्य दानमित्यर्थः ।
विष्णुः –
सर्व्वच स्वामिने विनष्टशस्यमूल्यश्च ।
१ क्वचित् पाठः प्रतियाचते । र वापितमिति क्वचित् पाठः । १३ गोवद्धमिति मूले पाठः ।
For Private And Personal Use Only