________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दण्डविवेकः।
मनुःधनुःशतं परौणाहो' ग्रामस्य स्यात् समन्ततः ।
शस्यापातास्त्रयो वापि त्रिगुणो नगरस्य च ॥ शस्या युगकोलकः स मध्यमपुरुषवाहुक्षिप्तो यावतों भुवमुल्लङ्य पतति तचिगुणो वा ग्रामक्षेत्रान्तरालपरोणाहः। एतच्च ग्राम्याणां धनुःपरिमाणानभिज्ञत्वेनानध्यवसायात् शस्यासौलभ्याञ्चोक्तम् । सेयं पूर्वपूर्वसर्वनिवन्धदृष्टपठितव्याख्यानानुसारिणी व्याख्या विवादचिन्तामणौ।
मित्रैस्तु सम्पाता इति पठित्वा सम्पाताः काण्डपाता इति व्याख्यातम्। सर्वच्चैतत् परिगणनमौत्सर्गिकम् । यावद्गवाद्याकीर्ण यद्ग्रामादि तावदनुसारेण तत्र गोप्रचार इति तत्त्वम्।
अथ विष्णुः,पथि ग्रामविवौतान्ते न दोषोऽनाते च। न चाल्पकालम्।
ग्रामान्ते रक्षितगोप्रचाराभ्यन्तरे विवीतो गवादिनियोगार्थ रक्षितयवसो भूभागः, अनारते पशुनिवारणसमनुत्तिशून्ये रथ्यादिक्षेत्रे। तेन वादिसन्निहित-क्षेत्रस्थे शस्ये पशुभिरल्यकालं खादिते पालदोषो नास्तीत्यर्थः । बहुकालभक्षणे त्वत्रापि दोष एव । अत एवोक्तं कृत्यसागरे।
आशयापराधस्तत्र कल्प्यत इति । स्मृतिसारे चोक्तं-आशयापराधस्तत्रभवतीति।
१ क्वचिन्मूले पाठः-धनुःशतपरौहारः। २ क पुस्तके यवाद्याकोणें ।
For Private And Personal Use Only