________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
XXX
Acharya Shri Kailassagarsuri Gyanmandir
भूमिका |
अथास्य पण्डितधौरेयस्य विचारचारता समीक्षणेनान्तर तीव प्रसादमुपैति । विषयविशेषे परस्परविरुद्धानामपि संहिताकारवचसां सुप्रतिष्ठितमीमांसया तथा समाधानं कृतमनेन विदुषा यदवलोक्य “किमयं मन्वादीनां वचोऽभिप्रायं तपसा गतवात तैरेव ऋषिभिरमुष्य ग्रन्थरचनाध्यवसायरूपतपोनिष्ठतामभिज्ञाय खप्ने याथार्थमुपदिष्ट" मितीव प्रज्ञावतां धारणा
रत्नाकरप्रणेतुश्चण्डेश्वरस्य मतं बहुषु स्थानेषु बहुमतवान् । परिच्छेदैः सप्तभिर्ग्रथितस्यास्य ग्रन्थस्य पयालोचनयैतत् सम्यक् जायते यथा वर्त्तमानकालीने राजकीयदण्डविधायकशास्त्रे प्रायशो नास्तीदृक् कचिदपराधो यः खलु ऋषिभिर्नोङ्घाटित आसीत् ।
प्राच्चैः सह वर्त्तमानराजकीयदण्डविधानामेतदेव स्थूलतः पार्थक्यम्,
यत् प्राच्याः किलापराधविशेषेषु केषुचित् अङ्गछेदादिरूपं दण्डं व्यवस्थापितवन्तः । अधुना तु तेषु तेष्वपराधेषु देहिक श्रम करणारूपो दण्डो निरूपित व्यास्ते व्यङ्गछेदादिरूपा दण्डा न दौयन्ते ।
व्अन्यच्च वधदण्डस्यापि भारतीयैर्निर्द्धारितां नानारूपतामुपेक्ष्य वर्त्तमानविधिषु वधदण्डस्यैकरूपत्वमेव यन्निर्णीतं तत् चारुतया प्रतिभाति ।
चातुर्वर्ण्यभूयिष्ठे भारते स्वस्ववर्णधम्मानुसारेण गार्हस्थामुपभुञ्जानासु प्रजासु दण्डव्यवस्थाया वर्णानुसारिणौ लघुगुरुभावता व्यासीत् । वर्त्तमाने सगुणनिर्गुणभावाभावेन तादृशपुरुषाणामसद्भावात् दण्डव्यवस्थाया वर्णानुसारित्वं प्रजासु विप्रटसलत्वमेवापादयिष्यतीति साम्प्रतं दूरदर्शिनो राजानस्तादृक्विधेरनुसरणं परिहृतवन्तः तच्च कालोपयोगितया सुन्दरमेव प्रतिभाति ।
व्यस्य च सम्पादनकमैणि पञ्चादर्शपुस्तकानि मिलितानि । तेष्वेकं कचिन्हितं कलिकाता एसिया टोकसोसाइटी पुस्तकागारादधिगतं, ख ग चिह्निते च दे वरदाराजकीय पुस्तकागारादधिगतेऽपरे च घ ङ चिह्निते दे दारवङ्गराघवपुरवास्तव्यस्य वाबुसाहेब — श्रीयुतव्रजनन्दनसिंह बाहादूरस्यानुकम्पया मिथिलात ratfar | तेषु च ख घ चिह्निते विशुद्धे खचिह्नितञ्चातिप्राचीनतमं गविहितमसम्पूर्णम् । व्अन्यानि च यानि मूलपुस्तकानि सम्पादन सौकर्य्यायोपयुक्तानौति मुद्रितामुतोभयसाधारणानि तानि सर्व्वाण्येव रसियाटीक सोसाइटी पुस्तका
For Private And Personal Use Only