________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भूमिका।
यदि चाप्यस्य ग्रन्थस्य ग्रन्थकर्त्तश्च सम्यकपरिचयोऽस्माभिरङ्गलीयभाषया भूमेव निवड्य मुखपत्रे प्रदर्शित आस्ते तथाप्यङ्गलभाषानभिज्ञानां विचक्षणानामवगमार्थ किञ्चित् स्वरूपमनयोः प्रदर्शयितुकामेन पृथगियं गीर्वाणभाषामयी संक्षिप्ता भूमिका लिख्यते।
अथायं ग्रन्थो दण्डविवेको भारतीयराजदण्ड विषयकश्चारमीमांसापरिखापरिवततयाऽनन्यदुर्भेद्यः सार्थकनामा निबन्धः। मैथिलमहामहोपाध्यायो वर्द्धमानोपाध्यायोऽस्य सङ्गालयिता। ग्रन्थकर्तुः स्वदत्तपरिचयेनैवं ज्ञायते यथाऽयं पण्डितप्रकाण्डस्य भवेशस्याङ्गजनिर्वाचस्पतिशङ्करयोछात्रो विल्वपञ्चकवंशसम्भतो मैथिलपतेभैरवस्य धम्माधिकरणिकतायामधिष्ठितश्चासौत् । एवमुपजीयस्य राज्ञः सनिबन्धादेशादेवैतत् ग्रन्थनिम्माणप्रयास इत्यपि ग्रन्थकर्तुंर्वचसैव ज्ञायते । निश्चीयते चानयैवैतन्यप्रदर्शितदिशा नरपतेभैरवस्य धम्माधिकरणं चालितमभूत् ।
__ भैरवश्च राजा घोडशशततमष्ठाब्दस्य मध्यभागमलञ्चकारेति प्रत्नतत्त्वविदुपस्थापितैर्बहुभिः प्रमाणैरुपलभ्यते। ग्रन्थकारगुरुचरणानां स्मृतिनिबन्धकर्त्तणां वाचस्पतिमिश्राणामपि स एव समयः ।
विशेषतञ्च गौड़ेश्वरान्यतम केदाररायं भैरवस्य नरपतेरत्यन्तविधेयतामुल्लिखता ग्रन्थकृताऽप्यात्मनः घोडशशततमष्ठान्दौयत्वं प्रकटितमेव ।
ग्रन्थस्यास्य निर्माणे यानि कतिपयानि संहितापुराणरूपाणि मूलपुस्तकानि ग्रन्थका सम्यक् परिदृशानि, खमतपरिपोषकतया च ये निबन्धग्रन्था अनुसृता येषाञ्च मतानि सन्दृष्य परिहृतानि, तेषु च केघाच्चिन्नामानि ग्रन्थावसानेऽप्यात्मनैव समुपस्थापितानि दृश्यन्ते यथा
कल्यतर-कामधेनु-हलायुधांश्च धम्मको स्मृतिसार-कृत्यसागर--रत्नाकर-पारिजातांश्च । टोकासहिते हे संहिते मनु-याज्ञवल्कयोक्ते व्यवहारे तिलकञ्च प्रदौपिकाच्च प्रदीपञ्च ॥ दृष्ट्वा कृतो निबन्धः निर्बन्धान्निबन्धादेशवर्षेण ।
For Private And Personal Use Only