SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २७४ दण्डविवेकः। मिताक्षराकारवाह। प्रथमे तावदर्षे कृत्स्नमेव धनिने दद्यात्, द्वितीये तु द्वादशं तृतीये दशमं चतुर्थादिषु षष्ठं भागं रक्षणमूल्यतया गृहीत्वा शेषं स्वामिने दद्यात्। यब्दादूई व्ययितेऽपि तस्मिन्नागते स्वामिनि राजा स्वांशमवतार्य तत्समं दद्यात् । तथा स्वाम्यनागमने कृत्स्नस्य धनस्य तदागमने राजस्वभागस्य चतुर्थमंशमधिगन्ने दद्यात् । यदाह गोतमः, प्रनष्टस्वामिकमधिगम्य वत्सरं राज्ञा रक्ष्यमूर्द्धमधिगन्तुश्चतुर्थोऽशो राज्ञः शेषमिति । सर्वञ्चेदं हिरण्यविषयम् । अन्यत्र विशेषमाह । याज्ञवल्क्यः, पणानेकशफे दद्याच्चतुरः पञ्च मानुषे । महिषोष्ट्रगवादी द्वौ पादं पादमजाविके ॥ एकशफोऽश्वादिः पादश्चतुःपणपादः पण इति यावदितिरत्नाकरः पणस्योपस्थितत्वात्तस्यैव पाद इति प्रतिभाति । इह मनूक्तषड्भागादिग्रहणस्य द्रव्यविशेषेऽपवादमाहेति कृत्वा मिताक्षराकृता वचनमिदमवतारितम्, व्याख्यातञ्च-एकशफादौ प्रनष्टाधिगते तत्स्वामी राज्ञः पणचतुष्टयाधिकं दद्यादिति। कल्पतरावपि राज्ञे रक्षणनिमित्तं चतुरः पणान् स्वामौ दद्यादिति व्याख्यातम् । १ घ पुस्तके राज्ञे। For Private And Personal Use Only
SR No.020171
Book TitleDandvivek
Original Sutra AuthorN/A
AuthorVardhaman, Kamal Krishna
PublisherOriental Institute
Publication Year1931
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy