________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रनाधिगताधिकारः।
२७३
दण्डोऽयमसत्यवादित्वादिति मिताक्षराकारः। युक्तच्चैतत्प्रत्यर्थिभावान्मिथ्याभियोगाभावेन प्रकृते मिथ्याभियोगौविगुणमित्यादिवचनाप्रवृत्तेः।
सद्योऽनुपस्थिते तु स्वामिनि वर्षवयं राजा तमपेक्षेतेत्याह। मनुः,
प्रनष्टस्वामिक द्रव्यं यब्दं राजा निधापयेत् । निधापयेत् रक्षयेत् । कस्य किं नष्टमित्येवं पटहादिनोहोष्य राजद्वारादौ स्थापयेदिति कुल्लूकभट्टः। अत्र यन्दमित्यावश्यकाभिप्रायमिति मिताक्षरा। तावतापि स्वामिन्यनुपस्थिते किं कुर्यादित्याह,मनुः,__ अचाक् यन्दात् हरेत् स्वामी परतो पतिहरेत् । हरेदिति व्ययीकरणाभ्यनुज्ञानार्थमिति मिताक्षरा। अब विशेषमाह स एव,
आददौताऽथ षड्भागं प्रनष्टाधिगतान्नृपः । दशमं द्वादशं वापि सतां धर्ममनुस्मरन् । रक्षणक्तशाल्पत्वमध्यत्वमहत्त्वैः षड़भागादिविकल्पो नेतव्य इति रत्नाकरः। । हलायुधोऽप्याह षड्भागादिग्रहणं रक्षापेक्षया व्यवस्थितमिति।
धनस्वामिनो 'निर्गुणत्वातिगुणवत्त्वापेक्ष इति कुल्लूकभट्टः।
१ क अतिगुणत्वापेक्ष-।
35
For Private And Personal Use Only