________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२७२
दण्डविवेकः।
तच कात्यायनः
राजप्रवर्त्तितान् धर्मान् यो नरो नानुपालयेत् । ग्राह्यः स पापो दण्ड्यश्च लापयन्वाजशासनम् ॥ ग्राह्योऽवरोध्यः।
सन्दिग्धानाञ्च भावनमिति निश्चितत्वेनेति शेषः। एतच्च येनासत्याभिधानेन परस्यानिष्टं जायते तत्परम् । अन्यत्र प्रायश्चित्तमात्रस्य प्रवर्तनौयत्वात्तदप्रहत्तेः । निष्कृतौनामकरणमित्यनेनोक्तत्वात् ।
यत्तु वादिनोरनिर्जी ते विवादविषये निर्णोतवदेकतरपक्षाभिधानं तत्र सभ्यादेर्दण्डो व्यवहारवर्गे वक्ष्यते । अथ प्रनष्टाधिगतमधिकृत्य याज्ञवल्क्यः,
प्रनष्टाधिगतं देयं पेण धनिने धनम् । विभावयेन्न चेल्लिङ्गैस्तत्सम दण्डमर्हति ॥ प्रनष्टं स्वामिनः प्रमादात् शुल्कशालादौ रथ्यादौ वा भ्रष्टं तस्करैरपहृतं वा अधिगतं शौकिकादिभिः स्थानपालादिभिव्वा तच्च तै राज्ञे समर्पणीयं "प्रनष्टमस्वामिकमधिगम्य राज्ञे ब्रूयुः” इति गोतमस्मरणात् ।
राजा तु तैरर्पितमुपस्थिताय स्वामिने दद्यात् स यदि शुक्लादिरूपं कटकाद्याकारञ्च तदित्यादिकैर्लिङ्गः सत्वं भावयति । अविभावने तु तत्समं दण्ड्यः ।
अवेदयानो नष्टस्य देशं कालञ्च तत्त्वतः । वर्णं रूपं प्रमाणञ्च तत्सम दण्डमर्हति ॥
इति मनुवचनसंवादात्।
For Private And Personal Use Only