________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
प्रकीर्णदण्डः ।
बृहस्पतिः —
सम्भूयैकमतं कृत्वा राजभाव्यं हरन्ति ये ।
ते तद्दशगुणं' दाप्या वणिजश्च पलायिनः ॥ राजभाव्यं राज्ञे देयम् ।
पितापुचविवाद इति ।
Acharya Shri Kailassagarsuri Gyanmandir
―
यद्यपि पिचा सह विवादे शृङ्गग्राहिकया साक्षाद्दण्डो न श्रूयते तथापि साक्षिप्रकरणे पिचा विवदमानचेति निन्दादर्शनान्निषेधाभिगमे नियमातिक्रमणप्रयुक्तः साहसोक्तः सामान्यदण्डः पितुर्गुणवत्त्वागुणवत्त्वतारतम्येन व्यवस्थितो द्रष्टव्यः । एवञ्चायं साक्ष्य एवोदाहियते । तत्र विष्णुः–
पितापुत्र विरोधे साक्षिणां दशपणो दण्डः । यस्तयोः सान्तरौयः स्यात्तस्योत्तमसाहसम् ।
सान्तरीयः स्यादिति तयोर्मध्यगो भूत्वा विरोधमुत्पादयतौत्यर्थः । कामधेनौ यस्तयोरन्तरे स्यादिति पठितम् । याज्ञवल्क्यः,
२६६
पितापुत्रविरोधे तु साक्षिणस्त्रिपणो दमः । अन्तरे च तयोर्यः स्यात्तस्याप्यष्टशतो दमः ॥
अष्टौ शतानि पणा यस्मिन् दमे दौयन्ते सोऽष्टशतः ।
१ मूले - ते तदष्टगुणं इति पाठः ।
२ क व पुस्तकदये पिटपुत्र
३ क्वचित् पाठः – साहसः ।
४ क पुस्तके व्यष्टपणः ।
For Private And Personal Use Only