________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२६४
दण्डविवेकः ।
ताम्बलिकादौनां जानपदाः कारुकादयः। विनौयेति नहि भयं विना वाङ्मात्रेण विधर्माणः शक्या निवर्तयितुम्, अदृष्टरूपेषु पापफलेषु श्रुतिवाक्यमश्रद्दधतां लौकिके वचसि विश्वासादरयोरसद्भावात् ।
तस्मादुदिष्टस्य सर्वस्यास्य प्रकारस्य नियमातिक्रमविशेषत्वात्तत्कर्तुर्दण्डः प्राप्तः स च विशेषविधेरन्यचापि देशकालाद्यनुसारेण कार्य इति तात्पर्यम् । तत्र राज्ञ आज्ञापतौघाते दण्डमाहतुः,शवलिखितौ,कूटशासनप्रयोगे राजाज्ञाप्रतिघाते कूटतुलामानप्रतिमानव्यवहारे शारीरोऽङ्गच्छेदो वा। शरोरो मारणरूप इति रत्नाकरः।
यत्तु प्रकाशतस्करप्रकरणे शारौरो मुण्डनादिरूप इति तत्रैव व्याख्यातं तत्कूटतुलादिव्यवहारमात्रविषयम् । अङ्गच्छेदो येनाङ्गेन तत् कुरुते तस्य कर्त्तनं विकल्पस्त्वपराधगौरवागौरवाभ्यां व्यवस्थित इति रत्नाकरः।
एवञ्चाल्यौयसि राजशासने लविते तत्कारणभूतस्यापि हस्तादेरेव छेदोऽपराधानुसारादिति द्रष्टव्यम् । अत एव,
प्रतिकूलेष्ववस्थितान् घातयेद्विविधैर्दमैः । इति मनुवचने कुल्लकभट्टेनोक्तं राजाज्ञाव्याघातकारिणोऽपराधापेक्षया करजिह्वाछेदादि दण्डयेदिति। . राजक्रियाकरणे दण्डमाह याज्ञवल्क्यः,राजयानासनारोढर्दण्डो मध्यमसाहसः ।
For Private And Personal Use Only