________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकीर्णदण्डः ।
२६५
यानं गजाश्वादि श्रसनं सिंहासनादि, अच राजाज्ञां
विनेति शेषः ।
कात्यायनः,
राजक्रौडासु ये सक्ता राजवृत्त्युपजीविनः । प्रियस्य तु यो वक्ता वधन्तेषां प्रकल्पयेत् ॥ राजक्रीडासु तदसाधारणौसु क्रौडासु चेष्टासु तदनुमतिं विना ये सक्ता ये च तेनाननुज्ञाताः प्रजापालनरूपां वृत्तिमवलम्वन्ते ये च राज्ञ एवाप्रियवादशौलास्ते वध्या इत्यर्थः ।
तथा, -
प्रतिरूपस्य कर्त्तारः प्राप्नुयुर्व्विविधं वधम् । प्रतिरूपस्य राजवेशस्य । अत्रापि तदनुमतिं विनेति
द्रष्टव्यम् ।
हन्यादित्यनुदृत्तौ विष्णुः, -
ये चाकुलौना राज्यमभिकामयेयुः । कुलौना राज्ञो यत् कुलं तदप्रस्नुता इत्यर्थः ।
याज्ञवल्क्यः,
ऊनं वाप्यधिकं वापि लिखतो राजशासनम् । पारदारिकचौराणां मुश्वतो दण्ड उत्तमः ॥ राजशासनमियद्देयमियग्राह्यमित्यादि राजादिष्टं यो
लिखेत्तस्य दण्ड इत्यर्थान्वयः ।
―
कात्यायनः,
प्रमाणेन तु कूटेन मुद्रया कूटयाऽपि वा । कार्य्यन्तु साधयेद्यो वै स दाप्यो दण्डमुत्तमम् ॥
For Private And Personal Use Only