________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकौर्णदण्डः ।
कात्यायनः,
राजधर्मान् त्वधमांश्च सन्दिग्धानाञ्च भाषणम् । वृहस्पतिः,षड्भागस्तरशुल्कञ्च गर्ने देयस्तथैव च । सङ्ग्रामचौरभेदी च शस्यघातनकृत्तथा ॥ अत्र षड्भागपदं प्रणष्टाधिगतसुवर्णादिपरं, तत्र राज्ञः षड्भागग्रहणसम्बन्धात् वैश्वदेवमन्त्रमितिवत् । तथा,निष्कृतौनामकरणमाज्ञासेधव्यतिक्रमः । वर्णाश्रमाणां लोपश्च वर्णसङ्करलोपनम् ॥ निधिनिष्कुलवित्तञ्च दरिद्रस्य धनागमः । अनानातानि कार्याणि क्रियावादाश्च वादिनाम् ॥ प्रकृतीनां प्रकोपश्च सङ्केतश्च परस्परम् । अशास्त्रविहितं यच्च प्रजायां सम्प्रकीर्त्यते ॥ आज्ञासेधव्यतिक्रमः राजाज्ञया वादिनोर्यस्य आसेधो ऽवरोधस्तस्य ताभ्यामतिक्रमणम् तच्च व्यवहारवर्गे स्फुटम् । निधिईिविधो वक्ष्यमाणलक्षणः। निष्कुलवित्तमुच्छन्नबन्धोर्मतस्य धनं सम्बन्धिनो ग्राहकस्य दण्डहेतुरित्यर्थः । दरिद्रस्य धनागम आकस्मिकः, अन्यमुपायं विना निध्यादिलाभनिश्चयात् दण्डहेतुः । अत्र याज्ञवल्क्यः ,कुलानि जातीः श्रेणीश्च गणं जानपदानपि । स्वधर्माच्चलितान् राजा विनौय स्थापयेत् पथि ॥ कुलानि ब्राह्मणादौनां, जातयः क्षत्रियाद्याः, गण
For Private And Personal Use Only