________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२६२
दण्डविवेकः। सत्यं वधत्वेनाभिधाने तविशेषाणां ताडनाङ्गच्छेदनप्रमापणानां तत्तद्दिषयमादाय व्यवस्था(प)नमिति ब्रूमः।
यथा कूटशासनप्रयोग इत्यादौ शङ्खलिखितवाक्ये एकमेव शारीरमिति पदं कूटतुलादिव्यवहारविषयतया मुण्डनादिरूप इति व्याख्याय राजाज्ञाप्रतिघातविषयतया मारणरूप इति रत्नाकरकृतैव व्याख्यातम् ।
इति प्रकीर्णके व्यवस्थावर्गः प्रथमः । नारदः,प्रकीर्णके पुनर्जेयो व्यवहारो नपाश्रयः । राज्ञामाज्ञाप्रतौघातस्तत्कर्मकरणन्तथा ॥ पुरप्रधानसम्भेदः प्रकृतीनां तथैव च । पाषण्डनैगमश्रेणीगणधर्मविपर्ययः ॥ पितापुत्रविवादश्च प्रायश्चित्तव्यतिक्रमः । 'प्रतिग्रहावलोपश्च लोप आश्रमिणामपि ॥
वर्णसङ्करदोषश्च तहत्तिनियमस्तथा। राज्ञ आज्ञापतौघात आदेशलवनं, तत्कर्मकरणं तदसाधारणक्रियाचरणम् । पुरशब्दः पुरवासिलोकपरः, नैगमाः अत्र वणिजः, नानापौरसमूह इति हलायुधः । श्रेण्यो वणिज एवान्यदेशपथोपजीविनः। एककर्मप्ररत्ता वणिक्कृषीवलादय इति कल्पतरुः। तत्तिनियमस्तेषां वर्णनां प्रवृत्तिनियमः ।
१ क्वचित् पाठः-प्रतिग्रहविलोपश्च कोप आश्रमिणामपि । २ क देशमध्योपजीविनः ।
For Private And Personal Use Only