________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकीर्णदण्डः ।
नियमातिक्रमिं नियमस्य शास्त्रस्यातिक्रमेण विहि तस्याकर्त्तारम् । अन्यं निषिद्धकारिणमिति कल्पतरुः । समापत्तेर्यावदेवं करिष्यामि नैवं करिष्यामि इति वा तस्य सम्प्रतिपत्तिर्भवति श्रसमापत्तावतथासम्प्रतिपत्तौ नाश्यो निव्वास्यः । एतदनुबन्धातिशयविषयं ब्राह्मणविषयञ्च ।
अब्राह्मणविषये मनुः,
मर्य्यादाभेदकश्चैव विचित्रं प्राप्नुयाद्दधम् ।
मर्यादा देशजातिकुलशास्त्रराजलोकस्थितिः, तस्या भेदकोऽतिक्रमकारौ मर्यादातिक्रमे सद्योघात एवानुशासनमिति नारदसंवादात् ।
इह रत्नाकरकृता मनुवाकये विकृतं वधं कर्णादिछेदनरूपं घातमिति व्याख्यातम् ।
।
अब विक्रयौ यस्तु बौजोत्कृष्टा तथैव च । इति पूर्व्वाईसमभिव्याहारसंवादात् नारदवचने घातस्ताडनमिति व्याख्यातम् ।
हस्तिप व्रात्य दासेषु गुव्वाचार्य्यातिगमेषु च । इति पूबासमभिव्याहारस्वरसात् । तदेतद्याख्यानद्दयमनुबन्धाभावविषयतया नेयम् । अनुबन्धे त्वसमापत्तिपक्षे क्षत्रियादिविषये हननमेवोभयोरर्थः । तचैव ब्राह्मणस्य प्रवासौचित्यात् ।
ननु क्वचित् तद्रत्नाकरोक्तार्थः क्वचित् त्वदुक्त इति सक्कदुच्चरिते शब्दे दुर्घटमिति चेत् ।
१ व विचित्रं ।
२ घ कानुबन्धविषयतया ।
For Private And Personal Use Only