________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२६०
दण्डविवेकः ।
प्रकीर्णके तु शिरोवादिनं विनाऽपि चरादिमु'खादर्णाश्रमिणां दोषं श्रुत्वा विचार्य तेषां यथाविहितं दण्ड विधाय धर्म्य पथि स्थापनमित्येवास्य तेभ्यो भेदः । नारदः,
यो यो वर्णोऽवहीयेत यश्चोद्रेकमनुव्रजेत् । तं तं दृष्ट्वा स्वतो मार्गात् प्रच्युतं स्थापयेत् पथि ॥ मनुः,
यश्चापि धर्मसमयात् प्रच्यतो धर्मजीवनः । दण्डेनैव तमालोषेत् स्वकाद् धर्मादिधिच्युतम् ॥ समयः शास्त्रीयमर्यादा धर्मजीवनो ब्राह्मणादिः। आलोषेत् दहेत् पौडयेदिति यावत्। विधिच्युतं वेदमार्गातिकान्तम् ।
एवञ्च विहितपरित्यागो निषिद्धाचरणमिति इयमपि दण्डनिमित्तं तत्र वृहस्पतिः,
विहिताकरणान्नित्यं प्रतिषिद्धनिषेवणात् ।
भक्ताच्छादं प्रदायैषां शेषं गृह्णीत पार्थिवः ॥ विहितस्य वर्णाश्रमकर्मणोऽसकृत्प्रमादादिव्यतिरेकेणाननुष्ठानात् प्रतिषिडस्याभक्ष्यभक्षणादेर्नित्यमनुष्ठानादिति पारिजातः। एतद्देशाचारव्यतिरिक्तविषयमिति कल्पतरुः ।
आपस्तम्बः,नियमातिक्रमिणं ब्राह्मणमन्यं वा रहसि बन्धयेदासमापत्तेरसमापत्तौ नाश्यः ।
१ क वादिमुखात् ।
२ घ त्वसमापत्तौ।
For Private And Personal Use Only