________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
org
Acharya Shri Kailassagarsuri Gyanmandir
प्रहरणदण्डः।
२५७
याज्ञवल्क्यः,करपाददन्तभङ्ग छेदने कर्णनासयोः। मध्यो दण्डो व्रणोद्देदे मृतकल्ये हते तथा । चेष्टाभोजनवाग्रोधे नेत्रादिप्रविभेदने ।
कन्धराबाहुसक्याञ्च' भङ्गे मध्यमसाहसः ॥ व्रणोद्भेदे प्ररूढायमानस्य व्रणस्य पुनर्नवीकरणे । मृतकल्पे हते मृतप्रायो यथा भवति तथा हते। याज्ञवल्क्यः,
दिनेवभेदिनश्चैव शूद्रस्याष्टशतो दमः । यत्र चिकित्सापनेयो भेदस्तहिषयमिदम् । अष्टशतोऽष्टशतपणरूप इति रत्नाकरः ।
विष्णुः,
करपाददन्तभङ्गे कर्णनासावकर्त्तने मध्यमञ्चष्टाभोजनवाग्रोधे प्रहारदाने नेत्र-कन्धरा-सक्याञ्च भङ्गे चोत्तमम् । उभयनेत्रभञ्जनं राजा यावज्जौवं वन्धनात् न मुञ्चत् तादृशमेव वा कुर्यात् ।
प्रहारदाने च नेचकन्धरासक्यामिति चकारो मध्यममित्यस्यानुप्रकर्षकः । भङ्गे चेति नेत्रादौनामित्यन्वयः । __ इह पूर्वोत्तरवाक्ययोरन्यत्र चैकस्मिन् विषये नानाविधशरीरार्थदण्डविकल्याः पौडाभूयस्त्वाभूयस्त्वाभ्यामाक्षेप्तधनवत्त्वाधनवत्त्वाभ्यां वा व्यवस्थाप्याः।
ये चार्थदण्डाः शारीरदण्डेन विकल्पिताः तेष्वाक्षेपकस्याब्यत्वानाव्यत्वाभ्यां व्यवस्थेति रत्नाकरः।
__ १ मूल-सक्थाङ्घि-- २ मूले-भैदिनम् ।
33
For Private And Personal Use Only