________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२५६
दण्डविवेकः ।
अत्रैव त्वग्भेदशोणिताधिक्ये मनुः,त्वम्भेदकः शतं दण्ड्यो लोहितस्य प्रदर्शकः ।
मांसभेत्ता तु पणिष्कान् प्रवास्यस्त्वस्थिभेदकः ॥ निष्कोऽच राजतो विशेषणभावात् आनुरूप्याच्च । षणिष्कान दौनारानिति नारायणः। एतद्दचनं समानजातिविषयं शूद्रेतरविषयच्चेति कुल्लूकभट्टः। प्रवास्यो गृहीतसर्वस्वो देशान्निास्य इति सर्वज्ञः । वृहस्पतिः,त्वम्भेदे प्रथमो दण्डो मांसभेदे तु मध्यमः । उत्तमस्त्वस्थिभङ्ग तु घातने' तु प्रमापणम् ॥ कर्णनासाकरच्छेदे दन्तभङ्गेऽस्थिभेदने । कर्त्तव्यो मध्यमो दण्डो द्विगुणः पतितेषु तु ॥ घातने वधे, प्रमापणं वध एवेति रत्नाकरः। यथा यत्र भाति तथोक्तमधस्तात् पतितेषु स्वस्थानाच्यावितेषु । कात्यायनः,कर्णीष्ठ-घ्राणपादाक्षिजिह्वाशिश्नकरस्य तु। छेदने चोत्तमो दण्डो भेदने मध्यमो भृगुः ॥ छेदने स्वस्थानाच्यावने भेदने विदारणे । तथा,
एतैः समापराधानां तत्राप्येवं विकल्पयेत् । समापराधानामङ्गान्तरछेदनभेदनकर्तृणां प्रमादकृतापराधविषयमिति रत्नाकरः ।
१ मूले-भेदे तु घातेन तु ।
For Private And Personal Use Only