________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रहरणदण्डः।
२५५
मनुः,
येन केनचिदङ्गेन हिंस्याच्छ्रेयांसमन्त्यजः । छेत्तव्यं तत्तदेवास्य तन्मनोरनुशासनम् ॥ पाणिमुद्यम्य दण्डं वा पाणिच्छेदनमर्हति । 'पादेन प्रहरन् कोपात् पादच्छेदनमर्हति ॥ हिंस्यात् प्रहरेत्, श्रेयासं चैवर्णिकम्, अन्त्यजः शूद्रः । विष्णुः,
न मातापितरावतिक्रामेन्न गुरुम् । त्रयाणामतिक्रमेऽङ्गच्छेदः।
अतिक्रमः पदाभिघातः इति रत्नाकरः। एवञ्च छेदः • पादस्यैव अभिघातकरणत्वात् ।
पञ्चाशत्पणदण्डप्रकरणे याज्ञवल्क्यःअाक्रोशतिक्रमकृत् भ्रातभा-प्रहारदः। अथ वृहस्पतिः,
कार्यः क्षतानुरूपन्तु लग्ने घाते दमो बुधैः । तबेष्टकादिप्रहारमधिकृत्याह स एव,
इष्टकोपलकाष्ठस्तु ताडने च द्विमाषिकः । द्विगुणः शोणितो दे दण्डः कार्यो मनौषिभिः ॥ शस्त्रकरणकप्रहारे विष्णु,
दण्ड्यः शोणितेन विना दःखमुत्पादयिता हात्रिंशत्पणान् सह शोणितेन चतुःषष्टिम् ।
१ ख घ पुस्तके पादेनेत्यादि पङ्किर्नास्ति ।
For Private And Personal Use Only