________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२५४
Acharya Shri Kailassagarsuri Gyanmandir
दण्डविवेकः ।
पौडाकर्षश्चांशुका वेष्टपदाध्यासश्चेति समाहारे इन्द्व इति रत्नाकरः । अस्मिन् समुचितेऽयं दण्ड इति मिता
क्षराकारः ।
कामधेनौ तु पौडाकषींशुकावेष्टेऽति पठितं तत्र पौडायै यस्याकर्षस्तेनांशुकेनेत्यर्थः । अंशुका तत्रोपचारेण तद्यपदेशात् पादादौनामन्यतमं गृहीत्वा उन्मुञ्चत्याकर्षत्यसौ दशपणान् दण्ड्यः । यस्त्वंशुकेनावेष्ट्य गाढमापौयाकृष्य पादेन परमध्यास्ते तस्य शतपणदण्ड इति समुदायार्थः । मनुनारदौ,
केशेषु गृह्णतो हस्तौ छेदयेदविचारयन् । पादयोर्दाढिकायाञ्च ग्रौवायां दृषणेषु च ॥
अ कुल्लूकभट्टेन पूर्व्वश्लोकस्थं दर्पादित्यनुवर्त्तितम् । हस्ताविति द्विवचनमेकेनापि हस्तेन ग्रहणे हस्तद्दयछेदनार्थं, दाढिका श्मश्रु । हारौतः, -
अधोवर्णस्योत्तमवर्णानामाक्रोशा क्षेपाभिभवेऽष्टौ पुराणाः । ग्रौवासञ्जन-गलहस्तन - कचवक्त्रप्रहरणेषु चिंशत् । रोमो - त्पाटनतर्ज्जनावगूरणेषु त्रिषष्टिः । शिखाकर्णाङ्गभङ्गछेदेषु शितम् । पादताडने ऽनृताभिशंसने तदङ्गच्छेदः पञ्चशतं वा । आद्येषु पादोनं किञ्चित् स्वामित्वादादिवर्णत्वाच्चोत्तमानामीशानतमो हि ब्राह्मणः ।
चिंशदित्यादौ पुराणा इत्यनुषङ्गः । व्याख्याशेषो वाक्पारुष्ये द्रष्टव्यः। अङ्गपदमच पाणिपादादिपरमिति शेषः ।
For Private And Personal Use Only