SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रहरणदण्डः। छादिप्रक्षेपे कात्यायनः, छर्दिमूत्रपुरोषाद्यैरापाद्यः स चतुर्गुणः । षड्गुणः कायमध्ये तु' मूट्टि चाष्टगुणः स्मृतः ॥ आदिपदादसाशुक्रमज्जासृजां संग्रहः। चतुर्गणत्वादिकं दशपणापेक्षं तेन कायमध्यशिरोव्यतिरिक्ताङ्गस्पर्शने चत्वारिंशत्पणाः, कायमध्यस्पर्श षष्टिः, शिरःस्पर्शेऽशौतिः पणा इत्यर्थः। मनुनारदौ, अवनिष्ठीवतो दर्पाद् हावोष्ठौ छेदयेन्नृपः । अवमूत्रयतो मेढ़मवशब्दयतो गुदम् ॥ अवनिष्ठौवत उपरि निष्ठौवनं कुर्वतः। अवमूचयतो मूत्रसेकं कुर्वतः। अवशब्दयतो गुदेन शब्दं कुर्चतः । कुल्लूकभट्टेनावगईयत इति पठित्वा गर्द्धनं गुदशब्दस्तेनावमानयत इति व्याख्यातं तत्र फलतो न विशेषः । दर्यादिति प्रमादमदमोहादिव्यावृत्त्यर्थम् । अत्र कुल्लूकभट्टेन पूर्वश्लोकं दृष्ट्वा शूद्रस्येत्यनुवर्तितम् । सर्वज्ञेन तु सर्वमिदमुक्तमधमेन क्रियमाणे द्रष्टव्यमित्युक्तम् । अथ याज्ञवल्क्यः,पादकेशांशुककरोन्मुच्चनेषु' पणान् दश । पौडाकींशुकावेष्टपादन्यासे शतं दमः ॥ १ स्यादिति क्वचित् पाठः। २ ख-करोल्लुम्छनेषु । ३ घ पादाध्यासे। For Private And Personal Use Only
SR No.020171
Book TitleDandvivek
Original Sutra AuthorN/A
AuthorVardhaman, Kamal Krishna
PublisherOriental Institute
Publication Year1931
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy