________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२५२
दण्डविवेकः।
तु मुख्यमिदं पारुष्यमित्यर्थ इति भाति। माषिको माषपरिमित इति रत्नाकरः, समेषु जात्यादिभिस्तुल्येषु । याज्ञवल्क्यः,
भस्मपङ्करजःस्पर्श दण्डो दशपणः स्मृतः । 'अमेध्यपाणिनियूतस्पर्शने द्विगुणस्ततः ॥ समेष्वेवं परस्त्रीषु द्विगुणस्वृत्तमेषु च । होनेष्वई दमो मोहमदादिभिरदण्डनम् ॥ अमेध्यमत्र अश्रु-श्लेष्म-नख-केश-कर्णविट-दूषिकाभक्तोच्छिष्टादिरूपम् । पार्णिश्चरणस्य पश्चिमो भागः, चरण एवास्य तात्पर्य्यमित्येके। नियतं मुखनिःसारितं जलं तैः स्पर्शने, ततो दशपणात् दिगुणो विंशतिपणो दण्डः । अत्र पुरौपादिस्पर्शने विशेषं वक्ष्यति कात्यायनः ।
एवञ्च वचनस्याधःस्पर्शविषयत्वेन कायमध्यमूईस्पर्शने गुणाधिक्यं द्रष्टव्यं कात्यायनानुसारात्, परस्त्रीषत्तमेषु च भस्मादिस्पर्श विंशतिपणा अमेध्यादिस्पर्श चत्वारिंशत्यणा
होनेष्वपकृष्टेष्वई भस्मादिस्पर्श पञ्च, अमेध्यादिस्पर्श दशपणा इत्यर्थः। मोहश्चित्तवैकल्यं, मदो मद्यादिजनिता विकृतावस्था, आदिपदादन्मादादिसंग्रहः। __बृहस्पतिवाक्ये भस्मादिभिः प्रहारो विवक्षित इति। तत्र दण्डगौरवमिह तु तेषां स्पर्शनमात्रमिति दण्डलाघवमतो न विरोध इति प्रतिभाति । एतावस्पर्श याज्ञवल्क्य इति स्मृतिसारोवतारणिकादर्शनात् स्पष्टम् ।
१ ख घ पुस्तकहये अमेध्ये ।
For Private And Personal Use Only