________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रहरणदण्डः ।
पणानुत्तौ शङ्खलिखितौ,
प्रहारोद्यमे घट्पञ्चाशत् निपातने तट्विगुणम् । प्रहियतेऽनेनेति प्रहारोऽश्मदण्डादिः, षट्पञ्चाशत् षडधिकपञ्चाशत्, इदमुत्तमवर्णेनाधमवर्णस्य दण्डपारुष्योद्यमे।
अथ प्रहरणदण्डः ।
तत्र भस्मादिप्रक्षेपे वृहस्पतिः,
भस्मादौनां प्रक्षेपणं ताडनञ्च करादिना । प्रथमं दण्डपारुष्यं दण्डः कर्षोऽत्र माषिकः ॥ एष दण्डः समे युक्तः परस्त्रौषधिकेषु च । द्विगुणस्त्रिगुणो ज्ञेयः प्राधान्यापेक्षया बुधैः ॥ ताडनमत्रोद्यमनमात्रमिति ग्रहेश्वरमिश्राः। एवमेव हरिनाथोपाध्यायाः। एवं व्याख्याने कामं प्रथममिति घटते दण्डगौरवन्तु दुर्घटम् ।
उगुरणात्तु हस्तस्य कार्यो हादशको दमः । स एव द्विगुणः प्रोक्तः पातनेषु सजातिषु ॥
इति कात्यायनविरोधात्। तस्मात् प्रहरणमेव ताडनपदार्थः प्रत्युत ताडनच्चेति चकारः समुच्चयार्थः। न्यूनश्च ताडयिता। प्रथममित्यस्य
For Private And Personal Use Only