________________
Shri Mahavir Jain Aradhana Kendra
२५८
www.kobatirth.org
दण्डविवेकः ।
Acharya Shri Kailassagarsuri Gyanmandir
आह च मनुः,—
मनुष्याणां पशूनाञ्च दुःखाय प्रकृते सति ।
यथा यथा महद्दुःखं दण्डं कुर्य्यात्तथा तथा ॥ अत्र दुःखायेत्यभिसन्धिपूर्व्वकत्वावगमात् प्रमादहते न च दोषः ।
अथ नारदः,
'राजनि प्रहरेद्यस्तु कृतागस्यपि दुर्मतिः । शूल्यं तमग्नौ विपचेद्ब्रह्महत्याशतातिगम् ॥
यो अब्राह्मणः कृतागसि कृतापराधे शूलमारोप्य यत्संहियते मांसादि तच्छूल्यम् । तेन राजप्रहारिणः शूलभेदेन पौडां विधायाभिपाकेन पौडा कर्त्तव्येत्यर्थः ।
इति महामहोपाध्याय धर्माधिकरणिक - श्रीबर्द्धमानकृतौ दण्डववेके दण्डपारुय्यदण्डपरिच्छेदः षष्ठः ।
१ क ख ग पुस्तकत्रये राजानं ।
For Private And Personal Use Only