________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२३२
दण्डविवेकः।
नारदः,पूर्वमाक्षारयेद् यस्तु नियतं स्यात् स दण्डभाक् ।
पश्चाद् यः सोप्यसत्कारौ पूर्वे तु विनयो गुरुः ॥ पूर्वमादौ आधारयेत् पारुष्यं कुर्यात् दोषभाक् दण्ड्यः, असत्कारौ सापराधः। विनयो दण्डो गुरुरितरापेक्षया तेन प्रथमप्रहर्तरि यथोक्तो दण्डश्चरमप्रहर्त्तरि तदपेक्षयाऽल्प इति तात्पर्य्यम् । प्रहारयोः पूर्वापरभावानवधारणे त्वाह । कात्यायनः,पारुष्यदोषाच्च तयोर्युगपत् संप्रहत्तयोः । विशेषश्चेन्न दृश्येत विनयः स्यात् समस्तयोः॥ पारुष्यदोषादिनय इत्यर्थः। विशेषोऽयमेवं पूर्व कृतवानित्याकार इति रत्नाकरः।
यद्यपि प्रहारयोः पूर्वापरभावेऽज्ञाते वादिनोः शपथादिना निर्णयात्तयोनिश्चयः, अन्यथा विवादानारोहात्।
तथापि मल्लयोरिव मेषयोरिव वाऽवास्तवं यत्र यौग्यपद्यं यत्र च प्रधानयोः कलहे तत्तद्देश्यानां सम्म प्रहारप्राथम्यं दुर्बोधं तद्दिषयमिदम् ।
उपलक्षणञ्चैतत् तेन यत्रैकस्यारम्भकत्वेऽन्यस्यानुबन्धित्वे यत्र चैकस्याल्येऽपि पारुष्ये प्राथमिके अन्यस्य पश्चात्तनेऽपि तस्मिन्नधिकेऽपराधसाम्यं तत्रापि सम एव दण्डः। एतदभिप्रायकमेव रत्नाकरोयमादिपदम् ।
१ मूले दोषभाक् ।
For Private And Personal Use Only