________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दण्डविवेकः ।
___ वनस्पतिपदमुपयुक्तसर्चस्थावरोपलक्षणार्थं न्यायसाम्यात् । तथा-उपयोगगौरवलाघवानुसारेण । अत्र कुल्लकभट्टः,
'फलपुष्यपत्रादिषूत्तममध्यमाधमेषूपयोगेषत्तमसाहसादिर्दण्ड' इत्याह।
युक्तच्चैतत् “फलापगद्रुमच्छेदौ वृत्तमसाहसमित्यादिवक्ष्यामणविष्णुवचनसंवादात् ।
इहास्वामिकेषु वृक्षलतादिषु स्वयं परदारा वा छिन्नेषु छेत्तर्दण्डो विध्यतिक्रमात् तेषामपि तथाछेदस्य निषिवत्वात्।
"फलपुष्योपयोगान् पादपान्न हिंस्यात्" । इत्यादिवसिष्ठादिवचनदर्शनात् । फलदानान्तु वृक्षाणां छेदने जप्यमक्शतम्।
गुल्मवल्लीलतानाञ्च पुष्पितानाञ्च वीरुधाम् ॥ इत्यादि प्रायश्चित्तोपदेशाच्च । स च दण्डः प्रकीर्णकप्रकरणे विस्तरेण वक्ष्यते ।
सस्वामिकेषु तु तत्स्वामिने तत्प्रतिनिधि-तन्मूल्ययोरेकतरदानमपौति विशेषः ।
अथ यदि पतिपिचादिर्भा-पुत्रादौननुशासन् स्वयं शिष्यादिद्वारा वा ताडयति तदा प्रहाराधिक्य एव तस्य दण्डो न त्वन्यथेत्याह मनुः,
१ घ पुष्योपगान् ।
For Private And Personal Use Only