SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दण्डपारुष्यदण्डः । २२६ तथा पशूनामित्यल्पवयसां किशोरकादौनामितिव्याख्यातवान्। नारायणसर्वज्ञत्वाह, क्षुद्रपशूनां मृगपक्ष्यादौनां दिशत इत्युत्तमदण्डोपदर्शनमेतत् तत्र तत्र तु क्षुद्रत्वहासक्रमेण हासः। एतच्च परिगृहीतविषये। अपरिगृहौते त्वाह पञ्चाशत्त्विति । शुभमृगा रुरुप्रभृतयः। श्व-साहचर्यात् शूकरोत्र ग्राम्यः। माषके हे रूप्यकृष्णलके इति पारिजातः। कुल्लकभट्टोऽपि पञ्चमाषिकः पञ्चरूप्यमाषपरिमाणः । न चात्र हैरण्यमाषकग्रहणमुत्तरोत्तरं लघुमाषकादि विधानादित्याह। नारायणस्तु पञ्चभिः सुवर्णमाषकैनिष्याद्यः पञ्चमाषिक इत्याह । कात्यायनः,प्रमापणे प्राणभृतां प्रतिरूपन्तु दापयेत् । तस्यानुरूपमूल्यं वा दाप्य इत्यव्रवीन्मनुः ॥ परकीयाणां दिचतुष्यदानां दण्डपातनजनिता या हिंसा या रथाद्यभिघातप्रभवा तदुभयसाधारणमिदं वचनम्। प्रतिरूपं प्रमापितस्य गुणादिना सदृशम् । एतच्च प्रतिरूपादिदानं प्रमापितस्वामिनः । अथ मनुः,वनस्पतीनां सर्वेषामुपयोगो यथा यथा । तथा तथा दमः कार्यों हिंसायामिति धारणा ॥ For Private And Personal Use Only
SR No.020171
Book TitleDandvivek
Original Sutra AuthorN/A
AuthorVardhaman, Kamal Krishna
PublisherOriental Institute
Publication Year1931
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy