________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२२८
दण्डविवेकः।
तथा च प्रमापणं नाशनं तच्चास्थ्यामेव प्रकृतत्वात् सन्निधिश्रुतत्वाच्च तेषामेव सम्बन्धित्वेन प्रतीतेः ।
एवं सति प्रपातनमित्येव किन्त्रोक्तमिति चेन्न, अङ्गल्यगुष्ठयोर्वध इति नारदोक्तिवत् स्वतन्त्रोक्तरपर्यनुयोज्यत्वात्। इत्यमस्यां सम्बन्धित्वे स्थिते घातनस्यापि पातनार्थत्वेन व्याख्यानं सुकरम् ।
एवञ्च यः प्रकृत्य परस्यास्थि पातयति तस्य तथैवास्थिपातनं दण्ड इति नैयायिको वाक्यार्थः ।
अत्र यद्यपि पदार्थे काचिद् वक्रताऽस्ति तथापि न दोषः । वाक्यार्थानुरोधेन पदार्थपरिकल्पनाया दृष्टत्वात् । न्यायानुग्रहाच्च । यो यथाऽपराध्यति तस्य तथैव दण्ड इत्ययं हि न्यायः प्रकृतपाठवादिनाऽपि वाच्य एव ।
न्यायमूलान्येव चैतानि वचनानौति पुरोभागितामपहाय सहृदयैरनुसन्धेयम् । तथा,
क्षुद्रकाणां पशूनाञ्च हिंसायां दिशतो दमः । पञ्चाशत्तु भवेद्दण्डः शुभेषु मृगपक्षिषु ॥ गईभाजाविकानाञ्च दण्डः स्यात् पञ्चमाषिकः । 'माषकस्तु भवेद्दण्डः श्वशूकरनिपातने ॥ क्षुद्रत्वमल्यपरिमाणत्वं तच्च वयस्तः शलभादौनां जातितो ऽजादौनामिति रत्नाकरादयः। क्षुद्राणां विशेषोपदिष्टादन्येषां वानरादौनामिति कुल्लकभट्टः।
१ व पुस्तके माघिकस्तु ।
For Private And Personal Use Only