________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दण्डपारुष्यदण्डः।
२२०
युक्तच्चैतत् । न चैवं मनुष्यमारणप्रकरणोक्तदण्डविरोधस्तच जिघांसया मनुष्यमारणमिह तु प्रमादादिनेति विशेषात् ।
एकत्र परस्य मरणमभिप्रेत्य प्रहरणमन्यच तस्य पौडामभिसन्धाय 'प्रहारे दैवात्तु ततस्तन्मरणमिति प्रहषुरपराधलाघवगौरवयोरौचित्यात्। अत एव गवादिवधे बुद्धिपूर्वकत्वाबुद्धिपूर्वकत्वाभ्यां प्रायश्चित्तोपदेशविशेषो घटते ।
अत एवेदं वचनम् निबन्धकारैः पारुष्यप्रकरणेऽवतारितम् न तु मनुष्यमारणप्रकरणे।
न च घातने तु प्रमापणमित्येतत् प्रकरणावतारितबृहस्पतिवचनविरोधः, तस्यापि बुद्धिपूर्वकवधविषयत्वात् ।
तथापि यत्र बहुषु प्रकारेषु कृतेष्ववसन्नमरणस्यापि पुनःपुननिःशल्क दण्डादिना प्रहरणं यत्र वा हिंसकत्वेन प्रसिद्धस्य खगादेः पातनं ततस्तन्मरणं तद्विषयमिदं वचनमिति न विरोधगन्धोऽपि ।
वस्तुतस्तु प्रकृतः पाठ एवासिद्धः। कामधेन्वादौ पातनस्य पद्यमानत्वात्।
तथा च यथोत्तरवाक्ये कर्णादौनां भेदे मध्यमो दण्डः पातने तद्दिगुणस्तथा पूर्ववाक्येऽप्यस्थिभेदे उत्तमस्तेषां पातने द्विगुण इति तुल्यन्यायतया प्राप्तं तत्र चायं वैकल्पिकः शारीरो दण्डः।
१ घ पुस्तके प्रहारात् ।
२ ख निःशङ्कः ।
For Private And Personal Use Only