________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दण्डविवेकः ।
तथा च,स चेत्तु पथि संरुद्धः पशुभिर्वा रथेन वा ।
प्रमापयेत् प्राणभृतस्तत्र दण्डोऽविचारितः ॥ वाकारोऽनास्थायां तेन प्रपातगमनोच्चावरोहणतिर्यग्गमनादिनाऽपौत्यर्थः। यत्र प्राजकाकौशलप्रयुक्तः पश्चाद् यानान्तरे यानप्रतिवद्ध-प्राणिहिंसाहेतुर्भवति। तचापि प्राजकस्य दण्डोऽविचारितो निश्चित इत्यर्थ इति रत्नाकरः।
नारायणेन तु अशक्यविषये हिंसायामाहेति वचनमिदमवतारितं व्याख्यातच दण्डो विचारितो मुनिभिर्नास्त्येवेत्यर्थ इति।
इदानौं प्राणिविशेषे मृते सारथेईण्डविशेषमाह स एव। .
मनुष्यमारणे क्षिप्रं चौरवत् किल्विषं भवेत्। प्राणवत्सु महत्व_ गोगजोष्ट्रहयादिषु ॥ अथ लगुडादिना बुद्धिपूर्वकमारणे दण्डमा हेति कृत्वा सर्वज्ञेनैव तदवतारितम् । अत्र चौरवदित्यनेन महति साहसे योऽर्थदण्डः सोऽतिदिश्यते न तु वधदण्डः, तस्याईत्वासम्भवेन गवादिषईमित्यभिधानविरोधादिति हलायुधः।
एवमेव रत्नाकरादयः । एवमेव कुल्लूकभट्टः, चौरदण्ड उत्तमसाहस इति च व्याख्यातवान् ।
नारायणसर्वज्ञस्तु यस्य चौर्ये यावान् धनदण्डस्तदर्द्धमित्याह।
For Private And Personal Use Only