________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२२४
Acharya Shri Kailassagarsuri Gyanmandir
दण्डविवेकः ।
परोपघातशङ्कया प्रथममेव दूरमपैहौति प्रजल्पतः । प्रकर्षेणोच्चैर्भाषमाणस्याश्वादिकृतमनुष्यादिदोषोऽश्वादिनेतुरभ्यासकर्त्तुश्च न भवतौत्यर्थः ।
अथ मनुः,
यानस्यैव हि जन्तोश्च यानस्वामिन एव च । दशातिवर्त्तनान्याहुः शेषे दण्डो विधीयते ॥
यानस्य रथादेर्यद्यपि पश्वादेन दण्डस्तथापि शिविकावाहकपुरुषस्यास्तीति यानग्रहणमिति नारायणः । जन्तोः सारथेर्दण्डमतिक्रभ्य वर्त्तन्त इत्यतिवर्त्तनानि
दण्ड
निमित्तानि ।
दशविधानि तान्याह स एव ।
'छिन्ननस्ये भिन्नयुगे। तिर्य्यक् प्रतिमुखागते । अक्षभङ्गे च यानस्य चक्रभङ्गे तथैव च ॥
भेदने चैव यन्त्राणां योक्त- रश्म्योस्तथैव च । क्रन्दे वाप्यपैति न दण्डो मनुरब्रवीत् ॥ छिन्ननस्ये छिन्ननासासमुद्धरज्जौ भिन्नयुगे युगकाष्ठभेदे प्रतिमुखागते प्रत्यारत्यागत इति नारायणः ।
तिर्य्यक् प्रतिमुखागते इति तिर्य्यक् प्रतिमुखञ्च यत् तत् प्रतिबोधादगतगमनं तेन तिर्य्यक् प्रतिमुखविरोधिगमनस्य यानान्तरबलेन यदपरस्य यानस्यागमनादितरदपि न दण्डहेतु इत्यर्थ इति रत्नाकरः ।
१ व पुस्तके छिन्नेनास्ये ।
For Private And Personal Use Only
२ ख भमयुगे ।