________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
org
Acharya Shri Kailassagarsuri Gyanmandir
२२२
दण्डविवेकः।
दःखोत्पादे शाखाच्छेदेऽङ्गच्छेदे यथाक्रमं विपणचतुष्यणाष्टपण-घोडशपणा दण्डा इति हलायुधः। एवमेव रत्नाकरः। मिताक्षरायान्तु,दिपणाद्दिगुण इत्यत्र द्विगुणप्रभृतिरिति पठितम् ।
उक्तञ्च नात्र दिपणस्त्रिपणश्चतुष्यणः पञ्चपण इति वाच्यम्। यथोत्तरमपराधगौरवेऽप्य श्रुतत्रित्वादिसंख्याश्रवणे गौरवात् । तस्मादरं श्रुतदित्वसंख्याया एवाभ्यासोऽस्तु तेन दिपणचतुष्यणषट्पणाष्टपणक्रमेण दण्ड इति ।
क्षुद्रपशूनामेव लिङ्गच्छेदने मारणे च मध्यमसाहसो दण्डः। पशुस्वामिने च मूल्यदानं महापशूनान्तुरगादौनामेतेषु दण्डस्थानेषु दिपणादयो दण्डादिगुणाः कार्या इति। विष्णः,
गजाश्वगवोष्ट्रोपघातौ चैकपादः कार्यः ग्राम्यपशुधातौ कार्षापणशतं दण्डः। पशुस्वामिने च तन्मूल्यं दद्यात् । अरण्यपशुधातौ पञ्चाशतं कार्षापणान् पक्षिघाती मत्स्यघाती च दशकार्षापणान् कौटोपघाती कार्षापणम् ।
अतज्जौविनामेष दण्ड इति कृत्यसागरस्मृतिसारौ। हलायुधस्त्वाह,
परपरिगृहीत कौटमत्स्यादिवधे दण्डोऽयं स्वामिने मूल्यदानाभिधानादिति ।
For Private And Personal Use Only