________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दण्डपारुष्यदगडः।
२२१
कात्यायनः,
देहेन्द्रियविनाशे तु यथा दण्डं प्रकल्पयेत् । तथा तुष्टिकरं देयं समुत्थानञ्च पण्डितैः॥
समुत्थानव्ययञ्चासौ दद्यादाव्रणरोहणात्। देयं दाप्यमित्यर्थः। अत्र प्रतिभाति इन्द्रियादीनां यत्रात्यन्तमेव नाशः करादौनां कमीक्षमत्वञ्च भवति तत्र पौडितस्य तुष्टिकरं नष्टाङ्गगौरवलाघवानुसारेण ताडको दाप्यः । तेषां प्रकृतिलाभपक्षे तु समुत्थानव्ययमात्रमिति व्यवस्था।
विष्णुः,सधै पुरुषपौडाकराः समुत्थानव्ययं दद्युम्यिपशुपौडाकराश्च ।
अत्रापि पशूनां प्रकृतिलाभपक्षे तत् समुत्थानव्ययमात्रमन्यत्र स्वामिने पशुप्रतिनिधिमूल्ययोरेकतरदानमिति द्रष्टव्यम्। अत्र याज्ञवल्क्यः,दःखेषुर शोणितोत्पादे शाखाङ्गछेदने तथा । दण्डः क्षुद्रपशूनान्तु दिपणाद्दिगुणः क्रमात् ॥ लिङ्गस्य छेदने मृत्यावधमो मूल्यमेव च ।
महापशूनामेतेषु स्थानेषु द्विगुणो दमः ॥ शाखा अनारम्भकशृङ्गादिरूपा अङ्गमारम्भकं करचरणादि। तेन क्षुद्रपशूनामजादौनां शोणितं विना
१ मूले-रोपणात्।
२ मुले दुःखेऽथ ।
३ घ म्हत्यौ मध्यमः ।
For Private And Personal Use Only