SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दण्डविवेकः । ___ तथा स्वामिने हृतभग्नदानमपहर्तुर्दण्डद्वैगुण्यं गाढप्रहर्तुः समुत्थानव्ययदानमित्यादिकञ्च दण्डोपदेशकाल एवाकल्पनीयम्। तत्र याज्ञवल्क्यः, कलहापहृतं देयं दण्डश्च द्विगुणस्ततः । कलहेन यद्येनापहृतं तत्तेन देयं ततः प्रहृतद्रव्याद्दिगुणो दण्डश्चापहर्तुः कर्त्तव्य इत्यर्थः । कात्यायनः,वाग्दण्डस्ताडनञ्चैव येषक्तमपराधिषु । हृतं भग्नञ्च दाप्यास्ते शोध्यं निस्वैः स्वकर्मणा ॥ भग्नं गृहरथ्यादि, निःस्वैनिईनैरपराधिभिः कर्मणा सेवादिरूपेण शोध्यं पूरणीयम् । मनुः, अङ्गानां पौडनायाञ्च व्रणशोणितयोस्तथा। सर्वस्वञ्च व्ययं दाप्यः सर्वदण्डमथापि वा ॥ व्रणो मांसभेद इति नारायणः । अङ्गानां करादौनां व्रणशोणितयोर्वा छेदनभेदनादिना पौडितस्य यावता कालेन समुत्थानसामर्थ्यं भवति तावत्पर्य्यन्तं यावान् पथ्यौषधादिव्ययो भवति तावत्तं पौडाकर्ता दद्यात् । अथ तं व्ययमसौ न दातुमिच्छति तदा यः समुत्थानव्ययो यश्च दण्डस्तं सर्वं राज्ञा दाण्यः । अत्र व्रणपदस्थाने प्राणपदं क्वचित् पद्यते । तत्र प्राणो बलमिति नारायणेनोक्तम् । For Private And Personal Use Only
SR No.020171
Book TitleDandvivek
Original Sutra AuthorN/A
AuthorVardhaman, Kamal Krishna
PublisherOriental Institute
Publication Year1931
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy