________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ब्राह्मणादौनां परस्पराक्षेपे ।
२१७
नारदः,श्वपाक पशु चाण्डाल वेश्या वधकत्ति'षु । हस्तिप व्रात्यदासेषु गुवाचार्यातिगेषु च ॥ मर्यादातिक्रमे सद्यो घात एवानुशासनम् । न च तद्दण्डपारुष्ये दोष'माहुर्मनीषिणः ॥ यमेव ह्यतिवर्तेरन्ते सन्तं जनं प्रति । स एव विनयं कुर्य्यान्न तविनयभाक् नृपः ॥ मला ह्येते मनुष्याणां धनमेषां मलात्मकम् ।
अपि तान् घातयेद्राजा नार्थदण्डेन दण्डयेत् ॥ श्वपाकः क्षत्रियायामुग्राज्जात इति रत्नाकरः। उग्रस्त्रियां क्षत्रियाज्जातः स इति तत्त्वम्,क्षत्राज्जातस्तथोग्यान्तु श्वापक इति कौर्त्यते ।
इति मनुदर्शनात् । उग्रस्तु,"शूद्रायां क्षत्रियाज्जातं प्राहुरुग्र इति विजा"
देवलेनोक्तः। पशुशब्द क्लीवपरः मिताक्षरायां पण्डेत्येवात्र पठितम्, चाण्डालः शुद्राह्राह्मण्यां जातश्च। वधकत्तिः परवध एव वृत्तिौवनं यस्य स वधक इति स्वार्थे कन् इति रत्नाकरः।
कामधेनौ कल्पतरौ च वेश्यासु वधकर्तुधिति स्पष्टमेव पठितम् । अत्र मिताक्षरायां व्यङ्गेषु वधकर्तृष्विति पाठः । १ मूले पाठः-व्यङ्गेषु वधत्तिषु। २ मूले स्तेयमिति पाठः ।
For Private And Personal Use Only