________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२१६
Acharya Shri Kailassagarsuri Gyanmandir
rastaanः ।
अच मान्यते पूज्यते न दण्ड्यत इति यावत् । क्षमते पारुष्यं नानुवध्नाति अतिवर्त्तते पारुष्यं तनोतौति रत्नाकरकृता व्याख्यातम् । एवञ्च बृहस्पतेरनपराधाभिधानमनुबन्धाभावविषयमनुबन्धे तु तचापि दण्ड इति गम्यते ।
वस्तुतस्तु — यः क्षमते सहते न तु स्वयमपि प्रतिपारुष्यं प्रवर्त्तयति स मान्यते वाचा पूज्यते यस्तु तादृशमप्यतिवर्त्तते पुनराक्षारयति स दण्डभाग् दण्ड्यते ।
वस्तुतस्तु सोढुमशक्नुवन् प्रत्याक्रोशति तस्य दण्डाभाव इति ऋजुरेव व्याख्या |
अचानुबन्धाभावेऽपि बृहस्पतेरनपराधाभिधानं समन्यूनौ प्रति मन्तव्यमधिकं प्रत्येवंविधेरप्यपराधस्योक्तत्वादिति रत्नाकरः ।
बृहस्पतिः–
वाक्पारुष्यादिना नौचो यः सन्तमभिलङ्घयेत् । स एव ताडयन्तस्य नान्वेष्टव्यो महीभुजा ॥ नौचोऽनुत्तमः सन्तमुत्तमं स एव उत्तम एव तस्य arsafaति हिंसार्थे षष्ठौ नान्वेष्टव्य इति हौनं ताडयतोऽधिकस्य दण्डो न करणीय इत्यर्थः ।
दण्डश्चायं द्विधा प्रसक्तः । वाक्पारुष्ये तस्यैवौचित्यादनुचितस्य दण्डपारुष्यस्य प्रणयनात् राजकर्त्तव्यस्य तस्य स्वयंकरणाच्च तदुक्तं ताडयन्निति स एवेति एतच्च श्वपाकादिपरं नारदवचनेनैकमूलकत्वे लाघवात् । अस्तु वा तदितरपरमपि न्यायसाम्यात् ।
For Private And Personal Use Only