________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ब्राह्मणादीनां परस्पराक्षेपे ।
वचनात् शास्त्ररूपात् परिहारार्थमिति पतितादिसंसर्गपरिहारार्थं यदि पातित्यादि कीर्त्तयति तदा न दोषः, अन्यथा पतितादिभिः सह तुल्यदोषः स्यादित्यर्थः ॥ तथा, -
तथ्यं श्रावितं राजा प्रयत्नेन विचारयेत् । अन्ताख्यानशीलानां जिह्वाच्छेदो विशोधनम् ॥ जिह्वाच्छेद इत्यब्राह्मणविषयं तच उत्तमसाहसेो दण्डो
"
द्रष्टव्यः ।
तथा हि हारीतः - मिथ्यादूषितानां मेलकानां जिह्वां छिन्द्याद्दण्डयेदा
साहस्रम् ।
मिथ्यादूषितानां मिथ्यावाक्पारुष्यकर्तॄणां मेलकानां वाक्पारुष्यकर्त्तृमेलयितृणाम् ।
कात्यायनः,
एकपाचेऽथ पंक्त्या वा सम्भोक्ता येन यो भवेत् । कुर्व्वाणस्तं तथा दण्ड्यस्तस्य दोषमदर्शयन् ॥ भोजनविरोधिनं दोषमदर्शयन् तं तथा कुर्व्वाणो दण्ड्य इत्यर्थः । यद्यप्येष क्रियादोषो न वाक्पारुष्यं, तथापि तन्नियतत्वात्तत्तुल्यन्यायत्वाच्चात्र लिखितः ।
बृहस्पतिः–
आक्रुष्टस्तु समाक्रोशन्नापराधौ भवेन्नरः । नारदः–
पारुष्ये सति संरम्भादुत्पन्नक्रोधयोर्द्वयोः । स मान्यते यः क्षमते दण्डभाग्योऽतिवर्त्तते ॥
२१५
For Private And Personal Use Only