________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२१२
दण्डविवेकः।
अगम्यमैथुनेनाभिशंसन, तेन जायां प्रति तव माता स्वैरिणीत्यादिरभिलापो द्रष्टव्यः। एवं मात्रादिष्टपौति नारायणः ।
कुल्लकभट्टोऽपि आक्षारितः क्षारितोऽभिशस्त इत्यभिधानकोषादुपपातकादिनाऽभिशपन्नित्यर्थमाह ।
तथा,
मातृभा-दौनां लघुगुरुपापाभिशापने न दण्डसाम्यं समाधेयमित्याह ।
मिताक्षराकारस्तु सापराधेषु मात्रादिषु निरपराधेषु जायादिषु द्रष्टव्यमेव तदित्याह। मेधातिथिस्तु आक्षारणं भेदनमित्युक्त्वा मावादीनां परस्परभेदनकर्तुरयं विधिरित्याह।
धर्मकोषे तु 'आक्रोशयन्निति पठित्वा आक्रोशनं साक्षेपाह्वानमिति व्याख्यातम् । वृहस्पतिः,
क्षिपन् स्वस्त्रादिकं दद्यात् पञ्चाशत्पणिकं दमम्। अथाधिकृताक्रोशे,—क्रोशत इत्यनुवृत्तौ शङ्खलिखितौ।
तथाधिकृतान् गुरुन् विप्रांश्च निर्भत्सनं ताडनं गोमयाप्रलेपनं खरारोहणं दर्पहरो दण्डो वा । अपराधतारतम्यापेक्षया व्यवस्थितोऽत्र विकल्यः । प्रकृतीनाञ्च दूषकान् हन्याहिट्से विनस्तथा ।
१ घ पुस्तके व्याकोपयन्निति पठित्वा आकोपनं साकोपाद्वानमिति पाठः । २ क्वचित् निर्भत्मयतो मुडनम् । ३ मूले पाठः खरारोपणाम् ।
For Private And Personal Use Only