________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ब्राह्मणादौनां परस्पराक्षेपे ।
तथा,
अभिगन्ताऽस्मि भगिनौं मातरञ्च तवेति हि । शपन्तं दापयेद्राजा पञ्चविंशतिकं दमम् ॥ भगिनौमित्यादि जायादेरप्युपलक्षणमिति मिताक्षरा। विवादचिन्तामणौ,अभिगन्तासि भगिनौं मातरं यन्ममेति हि।
इति पठितम्। याज्ञवल्क्यः,बाहुग्रौवानेचसक्थिविनाशे वाचिके दमः। 'शत्यस्तदईिकः पादकर्णनासाकरादिषु ॥ अशक्तस्तु वदन्नेवं दण्डनीयः पणान् दश । तथाशक्तः प्रतिभुवं दाप्यः क्षमाय तस्य तु ॥ अत्र बाह्वादौत्यनेन प्रधानमङ्गं विवक्षितं पादादौत्यनेनाप्रधानमिति रत्नाकरादयः। शत्यः शतपरिमितः।
अशक्त इत्यादि बाहुपादादिकम् ते कर्त्तयिष्यामौति वाचिकेऽपराधे समानेऽपि यस्तथा कर्तुमशक्तस्तस्य दशपणात्मको दण्डो यस्तु शक्तस्तस्य शत-तदर्डात्मकः, किच्चास्य सकाशादाक्षेप्यक्षेमाय प्रतिभूरपि ग्राह्य इत्यर्थः । मनुः,मातरं पितरं जायां भ्रातरम् तनयं गुरुम् ।
आक्षारयन् शतं दाप्यः पन्थानञ्चाददद्गुरोः ॥ आधारयन् वाक्पारुष्यविषयं कुर्वन्निति रत्नाकरः । मिथ्याभिशापेन योजयन्निति हलायुधः। आधारयन्
१ ख शक्तः ।
For Private And Personal Use Only