________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२१०
दण्डविवेकः ।
अथ तत्तदाक्षेपविषये याज्ञवल्क्यः,सत्याऽसत्यान्यथास्तोत्रैयूंनाङ्गेन्द्रियरोगिणाम्।
क्षेपं करोति चेद्दण्ड्यः पणान त्रयोदशान् ॥ न्यूनाङ्गाः करादिहीनाः, न्यूनेन्द्रिया नेत्रादिहीनाः, रोगिणः कुष्ठिप्रभृतयः। तेषां क्षेप आक्रोशः। स सत्यो यथा नेत्रशून्ये नेत्रशून्यस्त्वमसौत्यादि। असत्यो यथा इन्द्रियवतौन्द्रियशून्यस्त्वमसौत्यादि। अन्यथास्तोत्रमन्ध एव चक्षुष्मानसौत्यादि। एतत् समजातिगुणविषयम् ।
समजातिगुणानाञ्च वाक्पारुष्ये परस्परम् । विनयोऽभिहितः शास्त्रे पणा अई त्रयोदश ॥
इति वृहस्पतिसम्बादात्। विष्णुः,
दण्ड्यः काणखञ्जादौनां तत्त्ववाद्यपि कार्षापणहयम् । कार्षापणोऽत्र पणः । एतत् समगुणतिदरिद्रविषयमित्यविरोधः।
याज्ञवल्क्यः,__ शतं स्त्रौदूषणे दद्याद्दे तु मिथ्याभिशंसिता । स्त्रीशब्देनाच प्रकृतत्वात् कन्याऽवमृग्यते तेन यो विद्यमानापस्मारराजयक्ष्मादिदीर्घकुत्सितरोगसंसृष्टमैथुनत्वादिदोषान् प्रकाश्य कन्यां दूषयत्यसौ शतं दाप्यः । मिथ्याभिशंसने पुनरविद्यमानदोषाविष्करणे हे शते दाप्यः ।
अत्र विवाहयितुमुपस्थितायाः परिहारार्थ सत्यदोषप्रकाशे दोषाभावो द्रष्टव्यो वक्ष्यमाणनारदवचनात् ।
For Private And Personal Use Only