________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ब्राह्मणादौनां परस्पराक्षेपे।
२१३
इति मनुवचनमय्येवमेव नेयम्। तत्र प्रकृतीनाममात्यादौनां दूषकान् विनादोषं दोषोद्भावकानिति रत्नाकरः। भेदकानिति मनुटौका।
यत्तु,स्वाम्यमात्यसुहृत्कोषदण्डराष्ट्रमित्राणि प्रकृतयः तद्षकांश्च हन्यात् ।
इति विष्णुवचनं-तत्र स्वामी राजा, अमात्यशब्देन प्रधानशिष्टो विवक्षित इति रत्नाकरः ।
पूर्ववाक्यप्येवमेव वधश्चायमब्राह्मणविषयो ब्राह्मणस्य तु तत्प्रतिनिधिग्रहणमिति वक्ष्यते । अथ राजाकोशे नारदः,
लोकेऽस्मिन् दाववक्तव्याववध्यौ च प्रकीर्तितौ। ब्राह्मणश्चैव राजा च तौ हौदं विभूतो जगत् ॥ अवश्य च राजानं वर्त्मनि स्वे व्यवस्थितम् । जिह्वाछेदाद् भवेच्छुद्धः सर्वस्वग्रहणेन वा॥ वर्मनौत्यादेः प्रजानवेक्षणा'नपराधदण्डनादिराजदोषाभावे तात्पर्य कार्य्यिणां राजाक्षेपे दण्डाभावो दण्डव्यवस्थायां दर्शितः। याज्ञवल्क्यः,
राज्ञोऽनिष्टप्रवक्तारं तस्यैवाक्रोशकं तथा। तन्मन्त्रस्य च भेत्तारं जिह्वां छित्वा प्रवासयेत् ॥ मिताक्षरायामाकोशकमित्यत्राक्रोशिनमिति पठितं
१ घ पुस्तके प्रजानारक्षणानपराध ।
For Private And Personal Use Only