________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ब्राह्मणादीनां परस्पराक्षेपे ।
२०७
एतेन सङ्करजातानामपि दिजातिं प्रति दारुणाक्षेपेऽयं दण्डः तेषामपि जघन्यजातत्वात् ।
अत एव एकजातिरन्त्य जन्मेति सर्वज्ञः । अतिद्रोह अतिशयद्रोह इति रत्नाकरः। अथेति पठित्वा अतिद्रोहेण आक्रोशाभिमानेनेति सर्वज्ञेन व्याख्यातम् । अयोमयो लोहमयः, शङ्कः कोलकः। अग्निप्रदीप्तोऽयं मुखे प्रक्षेप्य इति कुल्लूकभट्टः। मनुः,
श्रुतं देशञ्च जातिञ्च कर्म शारीरमेव च । वितथेन वन् दर्यादाप्यः स्यादिशतं दमम् ॥ कर्म तपश्चर्यारूपं शारौरं शरीरावयवं वितथेनासत्येन। दर्पः स्वगुणदान परावज्ञानम्, तेन यत्र श्रुत देश जाति तपश्चर्या शरीरावयवविशेषमधिकृत्य दर्पादसत्यं वदति तत्र द्विशतं दण्ड्यः। वितथेनेति प्रकृत्यादिभ्य उपसंख्यानमिति तृतीया।
श्रुतादीनां वितथवचनं यथा नानेन वेदः श्रुतः, नास्य चाऱ्यांवों देशः, नायं विप्रः, नानेन तपः कृतं नायं दुश्चा इति रत्नाकरः।
शारौरं कर्मेति समानाधिकरणं तेन शरीरसंस्कारकमुपनयनादिकं तदिति कुल्लूकभट्टः ।
भारवाहनादौति नारायणः। तथा एवं वदन् दिज एव दण्ड्यो न तु शूद्रस्तस्य तु वध एवेति नारायणेनैव व्याख्यातं युक्तञ्चैतत्
For Private And Personal Use Only